Sarga 126: Rāma Describes the Way Home
प्रत्यावृत्तिपथवर्णनम्
pratyāvṛttipathavarṇanam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
अत्र योजनबाहुश्च कबन्धो निहतो मया । दृश्यते च जनस्थाने सीते श्रीमान्वनस्पतिः ।।6.126.41।।
Meaning
यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि । रावणस्य नृशंसस्य जटायोश्च महात्मनः ।।6.126.42।।
Meaning
खरश्च निहतो यत्र दूषणश्च निपातितः । त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ।।6.126.43।।
Meaning
एतत्तदाश्रमपदमस्माकं वरवर्णिनि । पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।।6.126.44।।
Meaning
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् । एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।।6.126.45।।
Meaning
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि । दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ।।6.126.46।।
Meaning
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् । उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ।।6.126.47।।
Meaning
अस्मिन्देशे महाकायो विराधो निहतो मया । एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।।6.126.48।।
Meaning
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः । अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ।।6.126.49।।
Meaning
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते । यत्र मां केकयीपुत्रः प्रसादयितुमागतः ।।6.126.50।।
Meaning