← Yuddha Kāṇḍa

Sarga 126: Rāma Describes the Way Home

प्रत्यावृत्तिपथवर्णनम्

pratyāvṛttipathavarṇanam — word-by-word gloss for all 56 shlokas.

Page 6 of 656 shlokas in this sarga (verified max-across-sources)
Shloka 126.51Word-by-word available

एषा सा यमुना दूराद्दृश्यते चित्रकानना । भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ।।6.126.51।।

Meaning

Shloka 126.52Word-by-word available

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि । इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी । नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना ।।6.126.52।।

Meaning

Shloka 126.53Word-by-word available

शृङ्गिबेरपुरं चैतद्गुहो यत्र समागतः । एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।।6.126.53।।

Meaning

Shloka 126.54Word-by-word available

नानातरुशताकीर्णा सम्प्रपुष्पितकानना । एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।।6.126.54।।

Meaning

Shloka 126.55Word-by-word available

अयोध्यां कुरु वैदेहि प्रणामं पुनरागता । ततस्ते वानराः सर्वे राक्षसश्च विभीषणः । उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ।।6.126.55।।

Meaning

Shloka 126.56Word-by-word available

ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम् । पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथाऽमरावतीम् ।।6.126.56।।

Meaning