← Yuddha Kāṇḍa

Sarga 79: Makarākṣa Slain

मकराक्षवधः

makarākṣavadhaḥ — word-by-word gloss for all 41 shlokas.

Page 2 of 541 shlokas in this sarga (verified max-across-sources)
Shloka 79.11Word-by-word available

यत्तदा दण्डकारण्ये पितरं हतवान्मम । मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषोऽभिवर्धते ।।6.79.11।।

Meaning

Shloka 79.12Word-by-word available

दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव । यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने ।।6.79.12।।

Meaning

Shloka 79.13Word-by-word available

दिष्ट्याऽसि दर्शनं राम मम त्वं प्राप्तवानिह । काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ।।6.79.13।।

Meaning

Shloka 79.14Word-by-word available

अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः । ये त्वया निहता वीराः सह तैश्च समेष्यसि ।।6.79.14।।

Meaning

Shloka 79.15Word-by-word available

बहुनाऽत्र किमुक्तेन शृणु राम वचो मम । पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ।।6.79.15।।

Meaning

Shloka 79.16Word-by-word available

अस्त्रैर्वा गदया वाऽपि बाहुभ्यां वा महाहवे । अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ।।6.79.16।।

Meaning

Shloka 79.17Word-by-word available

मकराक्षवचः श्रुत्वा रामो दशरथात्मजः । अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ।।6.79.17।।

Meaning

Shloka 79.18Word-by-word available

कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु । न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ।।6.79.18।।

Meaning

Shloka 79.19Word-by-word available

चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः । त्रिशिरा दूषणश्चैव दण्डके निहता मया ।।6.79.19।।

Meaning

Shloka 79.20Word-by-word available

स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः । भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ।।6.79.20।।

Meaning