Sarga 116: Good News for Maithilī
मैथिलीप्रियनिवेदनम्
maithilīpriyanivedanam — word-by-word gloss for all 53 shlokas.
Jump to a shloka · 53 in this sarga
रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता । मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ।।6.116.11।।
Meaning
प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ । सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये ।।6.116.12।।
Meaning
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् । तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।।6.116.13।।
Meaning
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः । एवमुक्ता समुत्पत्य सीता शशिनिभानना ।।6.116.14।।
Meaning
प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन । अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ।।6.116.15।।
Meaning
किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे । एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।।6.116.16।।
Meaning
अब्रवीत्परमप्रीता हर्षगद्गदया गिरा । प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।।6.116.17।।
Meaning
प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् । न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।।6.116.18।।
Meaning
मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् । न हि पश्यामि तत्सौम्य पृथिव्यामपि वानर ।।6.116.19।।
Meaning
सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् । हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।।6.116.20।।
Meaning