Sarga 116: Good News for Maithilī
मैथिलीप्रियनिवेदनम्
maithilīpriyanivedanam — word-by-word gloss for all 53 shlokas.
Jump to a shloka · 53 in this sarga
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् । एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।।6.116.21।।
Meaning
गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः । भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।।6.116.22।।
Meaning
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् । तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च ।।6.116.23।।
Meaning
रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते । अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।।6.116.24।।
Meaning
हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् । तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ।।6.116.25।।
Meaning
ततः शुभतरं वाक्यमुवाच पवनात्मजम् । अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् ।।6.116.26।।
Meaning
बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् । श्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः ।।6.116.27।।
Meaning
बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् । तेजः क्षमा धृतिर्धैर्यं विनीतत्वं न संशयः ।।6.116.28।।
Meaning
एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः । अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।।6.116.29।।
Meaning
प्रगृहीताञ्जलिर्हर्षात्सीतायाः प्रमुखे स्थितः । इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।।6.116.30।।
Meaning