Sarga 73: Indrajit's Battle of Illusion
इन्द्रजिन्मायायुद्धम्
indrajinmāyāyuddham — word-by-word gloss for all 75 shlokas.
Jump to a shloka · 75 in this sarga
गजस्कन्धगताः केचित्केचित्प्रवरवाजिभिः । व्याघ्रवृश्चिकमार्जारखरोष्ट्रैश्च भुजङ्गमैः ।।6.73.11।।
Meaning
वराहैः श्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः । काकहंसमयूरैश्च राक्षसा भीमविक्रमाः ।।6.73.12।।
Meaning
प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः । भुशुण्डिमुद्गरयष्टिशतघ्नीपरिघायुधाः ।।6.73.13।।
Meaning
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निःस्वनैः । जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ।।6.73.14।।
Meaning
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः । रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ।।6.73.15।।
Meaning
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः । चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ।।6.73.16।।
Meaning
स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् । राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् ।।6.73.17।।
Meaning
त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः । किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम् ।।6.73.18।।
Meaning
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा । रराजाप्रतिवीरेण द्यौरिवार्केण भास्वता ।।6.73.19।।
Meaning
स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः । स्थापयामास रक्षांसि रथं प्रति समन्ततः ।।6.73.20।।
Meaning