Sarga 71: Atikāya Slain
अतिकायवधः
atikāyavadhaḥ — word-by-word gloss for all 115 shlokas.
Jump to a shloka · 115 in this sarga
स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये । वानरान्सान्त्वयित्वाऽथ विभीषणमुवाच ह ।।6.71.11।।
Meaning
कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः । युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ।।6.71.12।।
Meaning
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः । अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ।।6.71.13।।
Meaning
कालजिह्वाप्रकाशाभिर्य एषोऽतिविराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ।।6.71.14।।
Meaning
धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ।।6.71.15।।
Meaning
क एष रक्षःशार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ।।6.71.16।।
Meaning
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते । सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ।।6.71.17।।
Meaning
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् । शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ।।6.71.18।।
Meaning
सध्वजः सपताकश्च सानुकर्षो महारथः । चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ।।6.71.19।।
Meaning
विंशतिर्दश चाष्टौ च तूण्योऽस्य रथमास्थिताः । कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ।।6.71.20।।
Meaning