Sarga 39: Laṅkā Beheld
लङ्कादर्शनम्
laṅkādarśanam — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च । कोणालकविघुष्टानि सारसाभिरुतानि च ।।6.39.11।।
Meaning
विविशुस्ते ततस्तानि वनान्युपवनानि च । हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ।।6.39.12।।
Meaning
तेषां प्रविशतां तत्र वानराणां महौजसाम् । पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ।।6.39.13।।
Meaning
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः । सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ।।6.39.14।।
Meaning
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् । कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः ।।6.39.15।।
Meaning
कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् । रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम् ।।6.39.16।।
Meaning
ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ।।6.39.17।।
Meaning
शिखरं तत्त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात्पुष्पसञ्छन्नं महारजतसन्निभम् ।।6.39.18।।
Meaning
शतयोजनविस्तीर्णं विमलं चारुदर्शनम् । श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ।।6.39.19।।
Meaning
मनसापि दुरारोहं किं पुनः कर्मणा जनैः । निविष्टा तत्र शिखरे लङ्का रावणपालिता ।।6.39.20।।
Meaning