← Yuddha Kāṇḍa

Sarga 39: Laṅkā Beheld

लङ्कादर्शनम्

laṅkādarśanam — word-by-word gloss for all 29 shlokas.

Jump to a shloka · 29 in this sarga

Page 3 of 329 shlokas in this sarga (verified max-across-sources)
Shloka 39.21Word-by-word available

शतयोजनविस्तीर्णा त्रिंशद्योजनमायता । सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसन्निभैः ।।6.39.21।।

Meaning

Shloka 39.22Word-by-word available

काञ्चनेन च सालेन राजतेन च शोभिता । प्रासादैश्च विमानैश्च लङ्का परमभूषिता ।।6.39.22।।

Meaning

Shloka 39.23Word-by-word available

घनैरिवातपापाये मध्यमं वैष्णवं पदम् । यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः ।।6.39.23।।

Meaning

Shloka 39.24Word-by-word available

कैलासशिखराकारो दृश्यते खमिवोल्लिखन् । चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ।।6.39.24।।

Meaning

Shloka 39.25Word-by-word available

शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते । मनोज्ञां काननवतीं पर्वतैरुपशोभिताम् ।।6.39.25।।

Meaning

Shloka 39.26Word-by-word available

नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् । नानाविहगसङ्घष्टां नानामृगनिषेविताम् ।।6.39.26।।

Meaning

Shloka 39.27Word-by-word available

नानाकुसुमसम्पन्नां नानाराक्षससेविताम् । तां समृद्धां समृद्धार्थां लक्ष्मीवांल्लक्ष्मणाग्रजः ।।6.39.27।।

Meaning

Shloka 39.28Word-by-word available

रावणस्य पुरीं रामो ददर्श सह वानरैः । तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः । नगरीममरप्रख्यो विस्मयं प्राप वीर्यवान् ।।6.39.28।।

Meaning

Shloka 39.29Word-by-word available

तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां च । पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ।।6.39.29।।

Meaning