Sarga 49: Rāma's Despair
रामनिर्वेदः
rāmanirvedaḥ — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः । सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः ।।6.49.21।।
Meaning
तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति न संशयः । यन्मया न कृतो राजा राक्षसानां विभीषणः ।।6.49.22।।
Meaning
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि । मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ।।6.49.23।।
Meaning
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः । सागरं तर सुग्रीव नीलेन च नलेन च ।।6.49.24।।
Meaning
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे । ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ।।6.49.25।।
Meaning
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च । युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ।।6.49.26।।
Meaning
गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ।।6.49.27।।
Meaning
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः । यत्तु शक्यं वयस्येन सुहृदा च परन्तप ।।6.49.28।।
Meaning
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा । मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।।6.49.29।।
Meaning
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवनम् ।।6.49.30।।
Meaning