Sarga 33: Saramā Comforts Sītā
सरमासमाश्वासनम्
saramāsamāśvāsanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् । धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ।।6.33.11।।
Meaning
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ।।6.33.12।।
Meaning
हन्ता परबलौघानामचिन्त्यबलपौरुषः । न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ।।6.33.13।।
Meaning
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना । इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।।6.33.14।।
Meaning
शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् । ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ।।6.33.15।।
Meaning
उत्तीर्य सागरं रामः सह वानरसेनया । सन्निविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ।।6.33.16।।
Meaning
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः । स हि तैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ।।6.33.17।।
Meaning
अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः । राघवस्तीर्ण इत्येव प्रवृत्तिस्तैरिहाहृता ।।6.33.18।।
Meaning
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः । एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।।6.33.19।।
Meaning
इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ।।6.33.20।।
Meaning