← Yuddha Kāṇḍa

Sarga 66: The Monkeys Rallied

वानरपर्यवस्थापनम्

vānaraparyavasthāpanam — word-by-word gloss for all 34 shlokas.

Page 2 of 434 shlokas in this sarga (verified max-across-sources)
Shloka 66.11Word-by-word available

तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ।।6.66.11।।

Meaning

Shloka 66.12Word-by-word available

सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् । ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ।।6.66.12।।

Meaning

Shloka 66.13Word-by-word available

लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ।।6.66.13।।

Meaning

Shloka 66.14Word-by-word available

लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ।।6.66.14।।

Meaning

Shloka 66.15Word-by-word available

वध्यमानास्तु ते वीरा राक्षसेन बलीयसा । सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ।।6.66.15।।

Meaning

Shloka 66.16Word-by-word available

ते स्थलानि तथा निम्नं विषण्णवदना भयात् । ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ।।6.66.16।।

Meaning

Shloka 66.17Word-by-word available

ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः । निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ।।6.66.17।।

Meaning

Shloka 66.18Word-by-word available

केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव । तान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत् ।।6.66.18।।

Meaning

Shloka 66.19Word-by-word available

अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः । भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ।।6.66.19।।

Meaning

Shloka 66.20Word-by-word available

स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ । निरायुधानां द्रवतामसङ्गगतिपौरुषाः ।।6.66.20।।

Meaning