← Yuddha Kāṇḍa

Sarga 66: The Monkeys Rallied

वानरपर्यवस्थापनम्

vānaraparyavasthāpanam — word-by-word gloss for all 34 shlokas.

Page 3 of 434 shlokas in this sarga (verified max-across-sources)
Shloka 66.21Word-by-word available

दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम् । कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ।।6.66.21।।

Meaning

Shloka 66.22Word-by-word available

क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा । अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ।।6.66.22।।

Meaning

Shloka 66.23Word-by-word available

विकत्थनानि वो यानि तदा वै जनसंसदि । तानि वः क्व नु यातानि सोदग्राणि महान्ति च ।।6.66.23।।

Meaning

Shloka 66.24Word-by-word available

भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।।6.66.24।।

Meaning

Shloka 66.25Word-by-word available

शयामहेऽथ निहताः पृथिव्यामल्पजीविताः । दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ।।6.66.25।।

Meaning

Shloka 66.26Word-by-word available

सम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे । जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ।।6.66.26।।

Meaning

Shloka 66.27Word-by-word available

न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।।6.66.27।।

Meaning

Shloka 66.28Word-by-word available

पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् । एकेन बहवो भग्ना यशो नाशं गमिष्यति ।।6.66.28।।

Meaning

Shloka 66.29Word-by-word available

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ।।6.66.29।।

Meaning

Shloka 66.30Word-by-word available

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः ।।6.66.30।।

Meaning