Sarga 13: Mahāpārśva's Words Welcomed
महापार्श्ववचोऽभिनन्दनम्
mahāpārśvavaco'bhinandanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम् । चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ।।6.13.11।।
Meaning
सा प्रसह्य मया भुक्ता कृता विवसना ततः । स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा ।।6.13.12।।
Meaning
तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः । अथ सङ्कुपितो देवो मामिदं वाक्यमब्रवीत् ।।6.13.13।।
Meaning
अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि । तदा ते शतधा मूर्धा फलिष्यति न संशयः ।।6.13.14।।
Meaning
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम् । नारोपये बलात्सीतां वैदेहीं शयने शुभे ।।6.13.15।।
Meaning
सागरस्येव मे वेगो मारुतस्येव मे गतिः । नैतद्दाशरथिर्वेद ह्यासादयति तेन माम् ।।6.13.16।।
Meaning
यस्तु सिंहमिवासीनं सुप्तं गिरिगुहाशये । क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति ।।6.13.17।।
Meaning
न मत्तो निशितान्बाणान्द्विजिह्वानिव पन्नगान् । रामः पश्यति सङ्ग्रामे तेन मामभिगच्छति ।।6.13.18।।
Meaning
क्षिप्रं वज्रोपमैर्बाणैः शतधा कार्मुकच्युतैः । राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ।।6.13.19।।
Meaning
तच्चास्य बलमादास्ये बलेन महता वृतः । उदयन्सविता काले नक्षत्राणामिव प्रभाम् ।।6.13.20।।
Meaning