Sarga 101: News of the Father's Death

पितृदिष्टान्तश्रवणम्

pitṛdiṣṭāntaśravaṇam — word-by-word gloss for all 9 shlokas.

Page 1 of 19 shlokas in this sarga (verified max-across-sources)
Shloka 101.1Word-by-word available

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ।।2.101.1।।

Meaning

Shloka 101.2Word-by-word available

शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ । ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।।2.101.2।।

Meaning

Shloka 101.3Word-by-word available

स समृद्धां मया सार्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय नः ।।2.101.3।।

Meaning

Shloka 101.4Word-by-word available

राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।।2.101.4।।

Meaning

Shloka 101.5Word-by-word available

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूकः सतां मतः ।।2.101.5।।

Meaning

Shloka 101.6Word-by-word available

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।।2.101.6।।

Meaning

Shloka 101.7Word-by-word available

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः । अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ।।2.101.7।।

Meaning

Shloka 101.8Word-by-word available

प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ।।2.101.8।।

Meaning

Shloka 101.9Word-by-word available

त्वामेव शोचंस्तव दर्शनेप्सुः त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णः त्वां संस्मरन्नस्तमितः पिता ते ।।2.101.9।।

Meaning