Sarga 41: The City in Turmoil
नगरसङ्क्षोभः
nagarasaṅkṣobhaḥ — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ । आर्तशब्दोऽथ सञ्जज्ञे स्त्रीणामन्तःपुरे महान् ।।2.41.1।।
Meaning
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः । यो गतिः शरणं चासीत्स नाथः क्वनु गच्छति ।।2.41.2।।
Meaning
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् । क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्वचिद्गतः ।।2.41.3।।
Meaning
कौसल्यायां महातेजाः यथा मातरि वर्तते । तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ।।2.41.4।।
Meaning
कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् । परित्राता जनस्यास्य जगतः क्व नु गच्छति ।।2.41.5।।
Meaning
अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् । धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ।।2.41.6।।
Meaning
इति सर्वा महिष्यस्ताः विवत्सा इव धेनवः । रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ।।2.41.7।।
Meaning
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः । पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत्सुदुःखितः ।।2.41.8।।
Meaning
नाग्निहोत्राण्यहूयन्त नापचन्गृहमेधिनः । अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत ।।2.41.9।।
Meaning
व्यसृजन्कबलान्नागाः गावो वत्सान्नपाययन् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ।।2.41.10।।
Meaning