Sarga 61: Kausalyā's Reproach
कौसल्योपालम्भः
kausalyopālambhaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
वनं गते धर्मपरे रामे रमयतां वरे । कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ।।2.61.1।।
Meaning
यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः । सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ।।2.61.2।।
Meaning
कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया । दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ।।2.61.3।।
Meaning
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता । कथमुष्णं च शीतं च मैथिली प्रसहिष्यते ।।2.61.4।।
Meaning
भुक्त्वाऽशनं विशालाक्षी सूपदं सान्वितं शुभम् । वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ।।2.61.5।।
Meaning
गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता । कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ।।2.61.6।।
Meaning
महेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः । भुजं परिघसङ्काशमुपधाय महाबलः ।।2.61.7।।
Meaning
पद्मवर्णं सुकेशान्तं पद्मनिश्श्वासमुत्तमम् । कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ।।2.61.8।।
Meaning
वज्रसारमयं नूनं हृदयं मे न संशयः । अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ।।2.61.9।।
Meaning
यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः । निरस्ताः परिधावन्ति सुखार्हः कृपणा वने ।।2.61.10।।
Meaning