Sarga 57: Sumantra Returns
सुमन्त्रोपावर्तनम्
sumantropāvartanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह । रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ।।2.57.1।।
Meaning
भरद्वाजाभिगमनं प्रयागे च सहासनम् । आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ।।2.57.2।।
Meaning
अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् । अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ।।2.57.3।।
Meaning
स वनानि सुगन्धीनि सरितश्च सरांसि च । पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ।।2.57.4।।
Meaning
ततः सायाह्नसमये तृतीयेऽहनि सारथिः । अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ।।2.57.5।।
Meaning
स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः । सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ।।2.57.6।।
Meaning
कच्चिन्न सगजा साश्वा सजना सजनाधिपा । रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ।।2.57.7।।
Meaning
इति चिन्तापरः सूतः वाजिभिः शीघ्रपातिभिः । नगरद्वारमासाद्य त्वरितः प्रविवेश ह ।।2.57.8।।
Meaning
सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः । क्व रामैति पृच्छन्तः सूतमभ्यद्रवन्नराः ।।2.57.9।।
Meaning
तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् । अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ।।2.57.10।।
Meaning