Sarga 59: Daśaratha's Lament

दशरथविलापः

daśarathavilāpaḥ — word-by-word gloss for all 34 shlokas.

Page 1 of 434 shlokas in this sarga (verified max-across-sources)
Shloka 59.1Word-by-word available

मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि । उष्णमश्रु विमुञ्चन्तः रामे सम्प्रस्थिते वनम् ।।2.59.1।।

Meaning

Shloka 59.2Word-by-word available

उभाभ्यां राजपुत्राभ्यामथ कृत्वाऽहमञ्जलिम् । प्रस्थितः रथमास्थाय तद्दुःखमपि धारयन् ।।2.59.2।।

Meaning

Shloka 59.3Word-by-word available

गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् । आशया यदि मां रामः पुनः शब्दापयेदिति ।।2.59.3।।

Meaning

Shloka 59.4Word-by-word available

विषये ते महाराज रामव्यसनकर्शिताः । अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः ।।2.59.4।।

Meaning

Shloka 59.5Word-by-word available

उपतप्तोदका नद्यः पल्वलानि सरांसि च । परिशुष्कुपलाशानि वनान्युपवनानि च ।।2.59.5।।

Meaning

Shloka 59.6Word-by-word available

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च । रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ।।2.59.6।।

Meaning

Shloka 59.7Word-by-word available

लीनपुष्करपत्राश्च नरेन्द्रकलुषोदकाः । सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः ।।2.59.7।।

Meaning

Shloka 59.8Word-by-word available

जलजानि च पुष्पाणि माल्यानि स्थलजानि च । नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ।।2.59.8।।

Meaning

Shloka 59.9Word-by-word available

अत्रोद्यानानि शून्यानि प्रलीनविहगानि च । न चाभिरामानारामान् पश्यामि मनुजर्षभ ।।2.59.9।।

Meaning

Shloka 59.10Word-by-word available

प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति । नरा राममपश्यन्तर्निश्वसन्ति मुहुर्मुहुः ।।2.59.10।।

Meaning