Sarga 96: Lakṣmaṇa's Anger
लक्ष्मणक्रोधः
lakṣmaṇakrodhaḥ — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।।2.96.1।।
Meaning
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना । एवमास्ते स धर्मात्मा सीतया सह राघवः ।।2.96.2।।
Meaning
तथा तत्रासतस्तस्य भरतस्योपयायिनः । सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्पृशौ ।।2.96.3।।
Meaning
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः । अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ।।2.96.4।।
Meaning
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः । तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ।।2.96.5।।
Meaning
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् । उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ।।2.96.6।।
Meaning
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया । भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ।।2.96.7।।
Meaning
गजयूथानि वारण्ये महिषा वा महावने । वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ।।2.96.8।।
Meaning
राजा वा राजमात्रो वा मृगयामटते वने । अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ।।2.96.9।।
Meaning
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण । सर्वमेतद्यथातत्त्वमचिराज्ञातुमर्हसि ।।2.96.10।।
Meaning