Sarga 17: Rāma Arrives
रामागमनम्
rāmāgamanam — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः। पताकाध्वजसम्पन्नं महार्हागरुधूपितम् ।।2.17.1।।
Meaning
अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्। स गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम् ।।2.17.2।।
Meaning
राजमार्गं ययौ रामः मध्येनागरुधूपितम्। चन्दनानां च मुख्यानामगरूणां च सञ्चयैः ।।2.17.3।।
Meaning
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च। अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ।।2.17.4।।
Meaning
शोभमानमसम्बाधैस्तं राजपथमुत्तमम्। संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि ।।2.17.5।।
Meaning
ददर्श तं राजपथं दिवि देवपथं यथा। दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः ।।2.17.6।।
Meaning
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्। आशीर्वादान्बहून् शृण्वन्सुहृद्भिः समुदीरितान् ।।2.17.7।।
Meaning
यथार्हं चापि सम्पूज्य सर्वानेव नरान्ययौ। पितामहैराचरितं तथैव प्रपितामहैः ।।2.17.8।।
Meaning
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय। यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ।।2.17.9।।
Meaning
ततः सुखतरं रामे वत्स्यामः सति राजनि। अलमद्य हि भुक्तेन परमार्थैरलं च नः ।।2.17.10।।
Meaning