Sarga 115: Dwelling at Nandigrāma
नन्दिग्रामनिवासः
nandigrāmanivāsaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
ततो निक्षिप्य मातॄः स अयोध्यायां दृढव्रतः । भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ।।2.115.1।।
Meaning
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः । तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ।।2.115.2।।
Meaning
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशाः ।।2.115.3।।
Meaning
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः । अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ।।2.115.4।।
Meaning
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ।।2.115.5।।
Meaning
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ।।2.115.6।।
Meaning
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ।।2.115.7।।
Meaning
प्रहृष्टवदनः सर्वा मातॄस्समभिवाद्य सः । आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः ।।2.115.8।।
Meaning
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ । ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ।।2.115.9।।
Meaning
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः । प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् ।।2.115.10।।
Meaning