Sarga 22: The Power of Fate
दैवप्राबल्यम्
daivaprābalyam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
अथ तं व्यथया दीनं सविशेषममर्षितम्। श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ।।2.22.1।।
Meaning
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्। उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् ।।2.22.2।।
Meaning
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्। अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ।।2.22.3।।
Meaning
उपक्लुप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे। सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम् ।।2.22.4।।
Meaning
सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः। अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः ।।2.22.5।।
Meaning
यस्या मदभिषेकार्थे मानसं परितप्यते। माता मे सा यथा न स्यात्सविशङ्का तथा कुरु ।।2.22.6।।
Meaning
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे। मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम् ।।2.22.7।।
Meaning
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन। मातॄणां वा पितुर्वाऽहं कृतमल्पं च विप्रियम् ।।2.22.8।।
Meaning
सत्यः सत्याभिसन्धश्च नित्यं सत्यपराक्रमः। परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ।।2.22.9।।
Meaning
तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते। सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ।।2.22.10।।
Meaning