Sarga 107: Rāma's Reply
रामप्रतिवचनम्
rāmaprativacanam — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः । प्रत्युवाच ततः श्रीमान् ज्ञातिमध्येऽभिसत्कृतः ।।2.107.1।।
Meaning
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः । जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ।।2.107.2।।
Meaning
पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ।।2.107.3।।
Meaning
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः । सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ।।2.107.4।।
Meaning
ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी । अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ।।2.107.5।।
Meaning
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा । तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ।।2.107.6।।
Meaning
तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम् ।।2.107.7।।
Meaning
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः । सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ।।2.107.8।।
Meaning
भवानपि तथेत्येव पितरं सत्यवादिनम् । कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ।।2.107.9।।
Meaning
ऋणान्मोचय राजानं मत्कृते भरतप्रभुम् । पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ।।2.107.10।।
Meaning