Sarga 39: Farewell before the Forest
वनगमनापृच्छा
vanagamanāpṛcchā — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
रामस्य तु वचः शृत्वा मुनिवेषधरं च तम् । समीक्ष्य सह भार्याभिः राजा विगतचेतनः ।।2.39.1।।
Meaning
नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् । न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ।।2.39.2।।
Meaning
स मुहूर्तमिवासञ्ज्ञो दुःखितश्च महीपतिः । विललाप महाबाहुः राममेवानुचिन्तयन् ।।2.39.3।।
Meaning
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः । प्राणिनो हिंसिता वाऽपि तस्मादिदमुपस्थितम् ।।2.39.4।।
Meaning
न त्वेवानागते काले देहाच्च्यवति जीवितम् । कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ।।2.39.5।।
Meaning
योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् । विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ।।2.39.6।।
Meaning
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः । स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ।।2.39.7।।
Meaning
एवमुक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः । रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ।।2.39.8।।
Meaning
सञ्ज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः । नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ।।2.39.9।।
Meaning
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः । प्रापयैनं महाभागमितो जनपदात्परम् ।।2.39.10।।
Meaning