Sarga 39: Farewell before the Forest
वनगमनापृच्छा
vanagamanāpṛcchā — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
एवं मन्ये गुणवतां गुणानां फलमुच्यते । पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ।।2.39.11।।
Meaning
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः । योजयित्वाययौ तत्र रथमश्वैरलङ्कृतम् ।।2.39.12।।
Meaning
तं रथं राजपुत्राय सूतः कनकभूषितम् । आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ।।2.39.13।।
Meaning
राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये । उवाच देशकालज्ञं निश्चितं सर्वतः शुचिम् ।।2.39.14।।
Meaning
वासांसि च महार्हाणि भूषणानि वराणि च । वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय ।।2.39.15।।
Meaning
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः । प्रायच्छत्सर्वमाहृत्य सीतायै सममेव तत् ।।2.39.16।।
Meaning
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ।।2.39.17।।
Meaning
व्यराजयत वैदेही वेश्म तत्सुविभूषिता । उद्यत्ॐशुमतः काले खं प्रभेव विवस्वतः ।।2.39.18।।
Meaning
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् । अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ।।2.39.19।।
Meaning
असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः । भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ।।2.39.20।।
Meaning