Sarga 92: Leave of Bharadvāja
भरद्वाजामन्त्रणम्
bharadvājāmantraṇam — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः । कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ।।2.92.1।।
Meaning
तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ।।2.92.2।।
Meaning
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ।।2.92.3।।
Meaning
तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।।2.92.4।।
Meaning
सुखोषितोऽस्मि भगवन् समग्रबलवाहनः । तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ।।2.92.5।।
Meaning
अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ।।2.92.6।।
Meaning
आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तमः । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।।2.92.7।।
Meaning
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः । आचक्ष्व कतमो मार्गः कियानिति च शंस मे ।।2.92.8।।
Meaning
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजाः भरद्वाजो महातपाः ।।2.92.9।।
Meaning
भरतार्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ।।2.92.10।।
Meaning