Sarga 15: Sumantra Sent for Rāma

सुमन्त्रप्रेषणम्

sumantrapreṣaṇam — word-by-word gloss for all 49 shlokas.

Page 1 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 15.1Word-by-word available

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः। उपतस्थुरुपस्थानं सह राजपुरोहिताः ।।2.15.1।।

Meaning

Shloka 15.2Word-by-word available

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च। राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ।।2.15.2।।

Meaning

Shloka 15.3Word-by-word available

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि। लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ।।2.15.3।।

Meaning

Shloka 15.4Word-by-word available

अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्। काञ्चना जलकुम्भाश्च भद्रपीठं स्वलङ्कृतम् ।।2.15.4।।

Meaning

Shloka 15.5Word-by-word available

रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा। गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ।।2.15.5।।

Meaning

Shloka 15.6Word-by-word available

याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च। प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः ।।2.15.6।।

Meaning

Shloka 15.7Word-by-word available

ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः। सलाजाः क्षीरिभिश्छन्नाः घटाः काञ्चनराजताः ।।2.15.7।।

Meaning

Shloka 15.8Word-by-word available

पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा। क्षौद्रं दधि घृतं लाजाः दर्भाः सुमनसः पयः ।।2.15.8।।

Meaning

Shloka 15.9Word-by-word available

वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः। चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ।।2.15.9।।

Meaning

Shloka 15.10Word-by-word available

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्। चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डरम् ।।2.15.10।।

Meaning