Sarga 42: Daśaratha's Cry
दशरथाक्रन्दः
daśarathākrandaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत । नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ।।2.42.1।।
Meaning
यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् । तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ।।2.42.2।।
Meaning
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः । तदाऽर्तश्च विषण्णश्च पपात धरणीतले ।।2.42.3।।
Meaning
तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना । वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया ।।2.42.4।।
Meaning
तां नयेन च सम्पन्नो धर्मेण विनयेन च । उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ।।2.42.5।।
Meaning
कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी । न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ।।2.42.6।।
Meaning
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ।।2.42.7।।
Meaning
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् । अनुजानामि तत्सर्वमस्मिन् लोके परत्र च ।।2.42.8।।
Meaning
भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् । यन्मे स दद्यात्पित्रर्थं मामां तद्दत्तमागमत् ।।2.42.9।।
Meaning
अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् । न्यवर्तत तदा देवी कौसल्या शोककर्शिता ।।2.42.10।।
Meaning