Sarga 85: Meeting Guha

गुहसमागमः

guhasamāgamaḥ — word-by-word gloss for all 22 shlokas.

Jump to a shloka · 22 in this sarga

Page 1 of 322 shlokas in this sarga (verified max-across-sources)
Shloka 85.1Word-by-word available

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ।।2.85.1।।

Meaning

Shloka 85.2Word-by-word available

ऊर्जितः खलु ते कामः कृतः मम गुरोस्सखे । यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि ।।2.85.2।।

Meaning

Shloka 85.3Word-by-word available

इत्युक्त्वा तु महातेजाः गुहं वचनमुत्तमम् । अब्रवीद्भरतः श्रीमान् निषादाधिपतिं पुनः ।।2.85.3।।

Meaning

Shloka 85.4Word-by-word available

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह । गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ।।2.85.4।।

Meaning

Shloka 85.5Word-by-word available

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचरः ।।2.85.5।।

Meaning

Shloka 85.6Word-by-word available

दाशास्त्वानुगमिष्यन्ति धन्विनः सुसमाहिताः । अहं त्वानुगमिष्यामि राजपुत्र महायशः ।।2.85.6।।

Meaning

Shloka 85.7Word-by-word available

कच्छिन्न दुष्टः व्रजसि रामस्याक्लिष्टकर्मणः । इयं ते महती सेना शङ्कां जनयतीव मे ।।2.85.7।।

Meaning

Shloka 85.8Word-by-word available

तमेवमभिभाषन्तमाकाशैव निर्मलः । भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ।।2.85.8।।

Meaning

Shloka 85.9Word-by-word available

माभूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ।।2.85.9।।

Meaning

Shloka 85.10Word-by-word available

तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् । बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ।।2.85.10।।

Meaning