Sarga 83: Bharata Leaves for the Forest
भरतवनप्रस्थानम्
bharatavanaprasthānam — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् । प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ।।2.83.1।।
Meaning
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः । अधिरुह्य हयैः युक्तान् रथान्सूर्यरथोपमान् ।।2.83.2।।
Meaning
नवनागसहस्राणि कल्पितानि यथाविधि । अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ।।2.83.3।।
Meaning
षष्ठी रथसहस्राणि धन्विनो विविधायुधाः । अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ।।2.83.4।।
Meaning
शतं सहस्राण्यश्वानां समारूढानि राघवम् । अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ।।2.83.5।।
Meaning
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । रामानयनसंहृष्टा ययुर्यानेन भास्वता ।।2.83.6।।
Meaning
प्रयाताश्चार्यसङ्घाताः रामं द्रष्टुं सलक्ष्मणम् । तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ।।2.83.7।।
Meaning
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् । कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ।।2.83.8।।
Meaning
दृष्ट एव हि नः शोकमपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ।।2.83.9।।
Meaning
इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाश्शुभाः । परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ।।2.83.10।।
Meaning