Sarga 112: The Sandals Given

पादुकाप्रदानम्

pādukāpradānam — word-by-word gloss for all 31 shlokas.

Jump to a shloka · 31 in this sarga

Page 1 of 431 shlokas in this sarga (verified max-across-sources)
Shloka 112.1Word-by-word available

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ।।2.112.1।।

Meaning

Shloka 112.2Word-by-word available

अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः । तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ।।2.112.2।।

Meaning

Shloka 112.3Word-by-word available

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे ।।2.112.3।।

Meaning

Shloka 112.4Word-by-word available

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः । भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ।।2.112.4।।

Meaning

Shloka 112.5Word-by-word available

कुले जात महाप्राज्ञ महावृत्त महायशः । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ।।2.112.5।।

Meaning

Shloka 112.6Word-by-word available

सदानृणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ।।2.112.6।।

Meaning

Shloka 112.7Word-by-word available

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ।।2.112.7।।

Meaning

Shloka 112.8Word-by-word available

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः । रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ।।2.112.8।।

Meaning

Shloka 112.9Word-by-word available

स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ।।2.112.9।।

Meaning

Shloka 112.10Word-by-word available

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ।।2.112.10।।

Meaning