Sarga 14: Kaikeyī Reproached
कैकेय्युपालम्भः
kaikeyyupālambhaḥ — word-by-word gloss for all 68 shlokas.
Jump to a shloka · 68 in this sarga
पुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि। विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ।।2.14.1।।
Meaning
पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम्। शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ।।2.14.2।।
Meaning
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः। सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः ।।2.14.3।।
Meaning
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः। प्रदाय पक्षिणो राजन् जगाम गतिमुत्तमाम् ।।2.14.4।।
Meaning
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ।।2.14.5।।
Meaning
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः। सत्यानुरोधात्समये वेलां स्वां नातिवर्तते ।।2.14.6।।
Meaning
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः। सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ।।2.14.7।।
Meaning
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः। स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ।।2.14.8।।
Meaning
धर्मस्येहाभिकामार्थं मम चैवाभिचोदनात्। प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ।।2.14.9।।
Meaning
समयं च ममाद्येमं यदि त्वं न करिष्यसि। अग्रस्तते परित्यक्ता परित्यक्ष्यामि जीवितम् ।।2.14.10।।
Meaning