Sarga 31: Lakṣmaṇa Permitted to Follow

लक्ष्मणवनानुगमनाभ्यनुज्ञा

lakṣmaṇavanānugamanābhyanujñā — word-by-word gloss for all 37 shlokas.

Page 1 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 31.1Word-by-word available

एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः। बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ।।2.31.1।।

Meaning

Shloka 31.2Word-by-word available

स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः। सीतामुवाचातियशा राघवं च महाव्रतम् ।।2.31.2।।

Meaning

Shloka 31.3Word-by-word available

यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्। अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ।।2.31.3।।

Meaning

Shloka 31.4Word-by-word available

मया समेतोऽरण्यानि बहूनि विचरिष्यसि। पक्षिभिर्मृगयूथैश्च सङ्घुष्टानि समन्ततः ।।2.31.4।।

Meaning

Shloka 31.5Word-by-word available

न देवलोकाक्रमणं नामरत्वमहं वृणे। ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ।।2.31.5।।

Meaning

Shloka 31.6Word-by-word available

एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः। रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत् ।।2.31.6।।

Meaning

Shloka 31.7Word-by-word available

अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम्। किमिदानीं पुनरिदं क्रियते मे निवारणम् ।।2.31.7।।

Meaning

Shloka 31.8Word-by-word available

यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः। एतदिच्छामि विज्ञातुं संशयो हि ममानघ ।।2.31.8।।

Meaning

Shloka 31.9Word-by-word available

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः। स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ।।2.31.9।।

Meaning

Shloka 31.10Word-by-word available

स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः। प्रियः प्राणसमो वश्यो भ्राता चासि सखा च मे ।।2.31.10।।

Meaning