Sarga 84: Guha's Approach

गुहागमनम्

guhāgamanam — word-by-word gloss for all 18 shlokas.

Jump to a shloka · 18 in this sarga

Page 1 of 218 shlokas in this sarga (verified max-across-sources)
Shloka 84.1Word-by-word available

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् । निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितोऽब्रवीत् ।।2.84.1।।

Meaning

Shloka 84.2Word-by-word available

महतीयमितः सेना सागराभा प्रदृश्यते । नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ।।2.84.2।।

Meaning

Shloka 84.3Word-by-word available

यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः । स एष हि महाकायः कोविदारध्वजो रथे ।।2.84.3।।

Meaning

Shloka 84.4Word-by-word available

बन्धयिष्यति वा दाशान् अथवास्मान् वधिष्यति । अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ।।2.84.4।।

Meaning

Shloka 84.5Word-by-word available

सम्पन्नां श्रियमन्विच्चन् तस्य राज्ञः सुदुर्लभाम् । भरतः कैकेयीपुत्रः हन्तुं समधिगच्छति ।।2.84.5।।

Meaning

Shloka 84.6Word-by-word available

भर्ता चैव सखा चैव रामोदाशरथिर्मम । तस्यार्थकामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत ।।2.84.6।।

Meaning

Shloka 84.7Word-by-word available

तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम् । बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ।।2.84.7।।

Meaning

Shloka 84.8Word-by-word available

नावां शतानां पञ्चानां कैवर्तानां शतं शतम् । सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ।।2.84.8।।

Meaning

Shloka 84.9Word-by-word available

यदा तुष्टस्तु भरतः रामस्येह भविष्यति । सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ।।2.84.9।।

Meaning

Shloka 84.10Word-by-word available

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च । अभिचक्राम भरतं निषादाधिपतिर्गुहः ।।2.84.10।।

Meaning