Sarga 1: Daśaratha Resolves to Crown Rāma
रामाभिषेकव्यवसायः
rāmābhiṣekavyavasāyaḥ — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
गच्छता मातुलकुलं भरतेन महात्मना। तदाऽनघः शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ।।2.1.1।।
Meaning
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः। मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ।।2.1.2।।
Meaning
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ।।2.1.3।।
Meaning
राजाऽपि तौ महातेजाः सस्मार प्रोषितौ सुतौ। उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ।।2.1.4।।
Meaning
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः। स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ।।2.1.5।।
Meaning
तेषामपि महातेजा रामो रतिकरः पितुः। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।।2.1.6।।
Meaning
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः। अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ।।2.1.7।।
Meaning
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना ।।2.1.8।।
Meaning
स हि वीर्योपपन्नश्च रूपवाननसूयकः। भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ।।2.1.9।।
Meaning
स तु नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते। उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ।।2.1.10।।
Meaning