Sarga 2: The Assembly Approves
परिषदनुमोदनम्
pariṣadanumodanam — word-by-word gloss for all 54 shlokas.
Jump to a shloka · 54 in this sarga
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः। हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ।।2.2.1।।
Meaning
दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना। स्वरेण महता राजा जीमूत इव नादयन् ।।2.2.2।।
Meaning
राजलक्षणयुक्तेन कान्तेनानुपमेन च। उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ।।2.2.3।।
Meaning
विदितं भवतामेतद्यथा मे राज्यमुत्तमम्। पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ।।2.2.4।।
Meaning
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्। मयाऽप्याचरितं पूर्वैः पन्थानमनुगच्छता ।।2.2.5।।
Meaning
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः। इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।।2.2.6।।
Meaning
पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया। प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ।।2.2.7।।
Meaning
जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये। राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ।।2.2.8।।
Meaning
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्। सोऽहं विश्रममिच्छामि रामं कृत्वा प्रजाहिते ।।2.2.9।।
Meaning
सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान्। अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।।2.2.10।।
Meaning