Sarga 117: Praise of Sītā's Fidelity

सीतापातिव्रत्यप्रशंसा

sītāpātivratyapraśaṃsā — word-by-word gloss for all 28 shlokas.

Jump to a shloka · 28 in this sarga

Page 1 of 328 shlokas in this sarga (verified max-across-sources)
Shloka 117.1Word-by-word available

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।।2.117.1।।

Meaning

Shloka 117.2Word-by-word available

इह मे भरतो दृष्टो मातरश्च सनागराः । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ।।2.117.2।।

Meaning

Shloka 117.3Word-by-word available

स्कन्धावारनिवेशेन तेन तस्य महात्मनः । हयहस्तिकरीषैश्चोपमर्दः कृतो भृशम् ।।2.117.3।।

Meaning

Shloka 117.4Word-by-word available

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ।।2.117.4।।

Meaning

Shloka 117.5Word-by-word available

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः । तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ।।2.117.5।।

Meaning

Shloka 117.6Word-by-word available

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।।2.117.6।।

Meaning

Shloka 117.7Word-by-word available

पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ।।2.117.7।।

Meaning

Shloka 117.8Word-by-word available

अनसूयां महाभागां तापसीं धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ।।2.117.8।।

Meaning

Shloka 117.9Word-by-word available

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् । दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।।2.117.9।।

Meaning

Shloka 117.10Word-by-word available

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता । उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।।2.117.10।।

Meaning