Sarga 106: Bharata's Plea
भरतवचनम्
bharatavacanam — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ।।2.106.1।।
Meaning
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।।2.106.2।।
Meaning
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् । सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।।2.106.3।।
Meaning
यथा मृतस्तथा जीवन् यथासति तथा सति । यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ।।2.106.4।।
Meaning
परावरज्ञो यश्च स्यात्यथा त्वं मनुजाधिप । स एवं व्यसनं प्राप्य न विषीदितुमर्हति ।।2.106.5।।
Meaning
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः । सर्वज्ञः सर्वदर्शी च बुद्धिमांश्च असि राघव ।।2.106.6।।
Meaning
न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् । अविषह्यतमं दुःखमासादयितुमर्हति ।।2.106.7।।
Meaning
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।।2.106.8।।
Meaning
धर्मबन्धेन बद्धोऽस्मि तेन इमां न इह मातरम् । हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।।2.106.9।।
Meaning
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः । जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ।।2.106.10।।
Meaning