Sarga 108: Jābāli's Argument

जाबालिवाक्यम्

jābālivākyam — word-by-word gloss for all 18 shlokas.

Jump to a shloka · 18 in this sarga

Page 1 of 218 shlokas in this sarga (verified max-across-sources)
Shloka 108.1Word-by-word available

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः । उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ।।2.108.1।।

Meaning

Shloka 108.2Word-by-word available

साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ।।2.108.2।।

Meaning

Shloka 108.3Word-by-word available

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् । यदेको जायते जन्तुरेकैव विनश्यति ।।2.108.3।।

Meaning

Shloka 108.4Word-by-word available

तस्मान्माता पिता चेति राम सज्जेतयो नरः । उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ।।2.108.4।।

Meaning

Shloka 108.5Word-by-word available

यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत् । उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ।।2.108.5।।

Meaning

Shloka 108.6Word-by-word available

एवमेव मनुष्याणां पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ।।2.108.6।।

Meaning

Shloka 108.7Word-by-word available

पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ।।2.108.7।।

Meaning

Shloka 108.8Word-by-word available

समृद्धायामयोध्यायामात्मानमभिषेचय । एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते ।।2.108.8।।

Meaning

Shloka 108.9Word-by-word available

राजभोगाननुभवन् महार्हान् पार्थिवात्मज । विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ।।2.108.9।।

Meaning

Shloka 108.10Word-by-word available

न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन । अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ।।2.108.10।।

Meaning