Sarga 34: Daśaratha Consoled
दशरथसमाश्वासनम्
daśarathasamāśvāsanam — word-by-word gloss for all 61 shlokas.
Jump to a shloka · 61 in this sarga
ततः कमलपत्राक्षः श्यामो निरुदरो महान्। उवाच रामस्तं सूतं पितुराख्याहि मामिति ।।2.34.1।।
Meaning
स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः। प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ।।2.34.2।।
Meaning
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्। तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ।।2.34.3।।
Meaning
आलोक्य तु महाप्राज्ञः परमाकुलचेतसम्। राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ।।2.34.4।।
Meaning
तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा। भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ।।2.34.5।।
Meaning
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः। ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ।।2.34.6।।
Meaning
स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः। सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ।।2.34.7।।
Meaning
गमिष्यति महारण्यं तं पश्य जगतीपते। वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ।।2.34.8।।
Meaning
स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः। आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ।।2.34.9।।
Meaning
सुमन्त्रानय मे दारान्ये केचिदिह मामकाः। दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ।।2.34.10।।
Meaning