Sarga 110: The Ikṣvāku Lineage Recounted
इक्ष्वाकुवंशकीर्तनम्
ikṣvākuvaṃśakīrtanam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।।2.110.1।।
Meaning
निवर्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।।2.110.2।।
Meaning
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता । ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह । स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ।।2.110.3।।
Meaning
असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः । आकाशप्रभवो ब्रह्मा शाश्वतो नित्याव्ययः ।।2.110.4।।
Meaning
तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ।।2.110.5।।
Meaning
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः । स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ।।2.110.6।।
Meaning
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही । तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।।2.110.7।।
Meaning
इक्ष्वाकोऽस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः । कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ।।2.110.8।।
Meaning
विकुक्षेस्तु महातेजाः बाणः पुत्रः प्रतापवान् । बाणस्य तु महाबाहुरनरण्यो महायशाः ।।2.110.9।।
Meaning
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करो नापि कश्चन ।।2.110.10।।
Meaning