Sarga 110: The Ikṣvāku Lineage Recounted
इक्ष्वाकुवंशकीर्तनम्
ikṣvākuvaṃśakīrtanam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
अनरण्यान्महाबाहुः पृथूराजा बभूव ह । तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।।2.110.11।।
Meaning
स सत्यवचनाद्वीरः सशरीरो दिवङ्गतः । त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ।।2.110.12।।
Meaning
धुन्धुमारो महातेजाः युवनाश्वो व्यजायत । युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ।।2.110.13।।
Meaning
मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत । सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ।।2.110.14।।
Meaning
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः । भरतात्तु महाबाहोरसितो नाम जायत ।।2.110.15।।
Meaning
यस्यैते प्रतिराजानो उदपद्यन्त शत्रवः । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ।।2.110.16।।
Meaning
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः । स च शैलवरे रम्ये बभूवाभिरतो मुनिः ।।2.110.17।।
Meaning
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः । एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।।2.110.18।।
Meaning
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः । तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ।।2.110.19।।
Meaning
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ।।2.110.20।।
Meaning