Sarga 10: Daśaratha Pleads with Kaikeyī
कैकेय्यनुनयः
kaikeyyanunayaḥ — word-by-word gloss for all 40 shlokas.
Jump to a shloka · 40 in this sarga
विदर्शिता यदा देवी कुब्जया पापया भृशम्। तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ।।2.10.1।।
Meaning
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी। मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ।।2.10.2।।
Meaning
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता। नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ।।2.10.3।।
Meaning
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्। सा सुहृच्चार्थकामा च तन्निशम्य सुनिश्चयम् ।।2.10.4।।
Meaning
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा। अथ सा मर्षिता देवी सम्यक्कृत्वा सुनिश्चयम् ।।2.10.5।।
Meaning
संविवेशाबला भूमौ निवेश्य भृकुटीं मुखे। ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ।।2.10.6।।
Meaning
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे। तया तान्यपविद्धानि माल्यान्याभरणानि च ।।2.10.7।।
Meaning
अशोभयन्त वसुधां नक्षत्राणि यथा नभः। क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ।।2.10.8।।
Meaning
एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी। आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।।2.10.9।।
Meaning
उपस्थासमनुज्ञाप्य प्रविवेश निवेशनम्। अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ।।2.10.10।।
Meaning