Sarga 66: The Body Laid in Oil
तैलद्रोण्यधिशयनम्
tailadroṇyadhiśayanam — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् । हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ।।2.66.1।।
Meaning
कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता । उपगृह्य शिरः राज्ञः कैकेयीं प्रत्यभाषत ।।2.66.2।।
Meaning
सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् । त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ।।2.66.3।।
Meaning
विहाय मां गतः रामः भर्ता च स्वर्गतः मम । विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ।।2.66.4।।
Meaning
भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः । इच्चेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ।।2.66.5।।
Meaning
न लुब्धो बुध्यते दोषान् किम्पाकमिव भक्षयन् । कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ।।2.66.6।।
Meaning
अनियोगे नियुक्तेन राज्ञा रामं विवासितम् । सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा ।।2.66.7।।
Meaning
स मामनाथां विधवां नाद्य जानाति धार्मिकः । रामः कमलपत्राक्षो जीवनाशमितः गतः ।।2.66.8।।
Meaning
विदेहराजस्य सुता तथा सीता तपस्विनी । दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ।।2.66.9।।
Meaning
नदतां भीमघोषाणां निशासु मृगपक्षिणाम् । निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ।।2.66.10।।
Meaning