← Ayodhyā Kāṇḍa

Sarga 66: The Body Laid in Oil

तैलद्रोण्यधिशयनम्

tailadroṇyadhiśayanam — word-by-word gloss for all 29 shlokas.

Jump to a shloka · 29 in this sarga

Page 2 of 329 shlokas in this sarga (verified max-across-sources)
Shloka 66.11Word-by-word available

वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनिचिन्तयन् । सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ।।2.66.11।।

Meaning

Shloka 66.12Word-by-word available

साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता । इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ।।2.66.12।।

Meaning

Shloka 66.13Word-by-word available

तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम् । व्यपनिन्युः सुदुह्खार्तां कौसल्यां व्यावहारिकाः ।।2.66.13।।

Meaning

Shloka 66.14Word-by-word available

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् । राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ।।2.66.14।।

Meaning

Shloka 66.15Word-by-word available

न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुमीषुस्ते ततः रक्षन्ति भूमिपम् ।।2.66.15।।

Meaning

Shloka 66.16Word-by-word available

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् । हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ।।2.66.16।।

Meaning

Shloka 66.17Word-by-word available

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैः मुखैः । रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन् ।।2.66.17।।

Meaning

Shloka 66.18Word-by-word available

हा महाराज रामेण सततं प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ।।2.66.18।।

Meaning

Shloka 66.19Word-by-word available

कैकेय्या दुष्टभावायाः राघवेण वियोजिताः । कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ।।2.66.19।।

Meaning

Shloka 66.20Word-by-word available

स हि नाथः सदाऽस्माकं तव च प्रभुरात्मवान् । वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ।।2.66.20।।

Meaning