Sarga 66: The Body Laid in Oil
तैलद्रोण्यधिशयनम्
tailadroṇyadhiśayanam — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
त्वया तेन च वीरेण विना व्यसनमोहिताः । कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ।।2.66.21।।
Meaning
यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह सन्त्यक्ताः सा कमन्यं न हास्यति ।।2.66.22।।
Meaning
ता बाष्पेण च संवीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः ।।2.66.23।।
Meaning
निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता । पुरी नाराजतायोध्या हीना राज्ञा महात्मना ।।2.66.24।।
Meaning
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना । शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ।।2.66.25।।
Meaning
गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च । निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता ।।2.66.26।।
Meaning
ऋते तु पुत्राद्दहनं महीपतेः नरोचयन्ते सुहृदः समागताः । इतीव तस्मिन् शयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम् ।।2.66.27।।
Meaning
गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्गचत्वरा ।।2.66.28।।
Meaning
नराश्च नार्यश्च समेत्य सङ्घः विगर्हमाणा भरतस्य मातरम् । तदा नगर्यां नरदेवसङ्क्षये बभूवुरार्ता न च शर्म लेभिरे ।।2.66.29।।
Meaning