Sarga 89: Crossing the Gaṅgā

गङ्गातरणम्

gaṅgātaraṇam — word-by-word gloss for all 23 shlokas.

Jump to a shloka · 23 in this sarga

Page 1 of 323 shlokas in this sarga (verified max-across-sources)
Shloka 89.1Word-by-word available

पुष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः । भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।।2.89.1।।

Meaning

Shloka 89.2Word-by-word available

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।।2.89.2।।

Meaning

Shloka 89.3Word-by-word available

जागर्मि नाहं स्वपिमि तमेवार्यं विचिन्तयन् । इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः ।।2.89.3।।

Meaning

Shloka 89.4Word-by-word available

इति संवदतोरेवमन्योन्यं नरसिंहयोः । आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ।।2.89.4।।

Meaning

Shloka 89.5Word-by-word available

कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् । कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।।2.89.5।।

Meaning

Shloka 89.6Word-by-word available

गुहस्य वचनं श्रुत्वा तत्तु स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ।।2.89.6।।

Meaning

Shloka 89.7Word-by-word available

सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ।।2.89.7।।

Meaning

Shloka 89.8Word-by-word available

ततो गुहः सन्त्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।।2.89.8।।

Meaning

Shloka 89.9Word-by-word available

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा । नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ।।2.89.9।।

Meaning

Shloka 89.10Word-by-word available

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् । पञ्चनावां शतान्याशु समानिन्युः समन्ततः ।।2.89.10।।

Meaning