Sarga 89: Crossing the Gaṅgā
गङ्गातरणम्
gaṅgātaraṇam — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
अन्याः स्वस्तिकविज्ञेयाः महाघण्टाधरा वराः । शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः ।।2.89.11।।
Meaning
ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।।2.89.12।।
Meaning
तामारुरोह भरतः शत्रुघ्नश्च महाबलः । कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।।2.89.13।।
Meaning
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदारास्तथैव शकटापणाः ।।2.89.14।।
Meaning
आवासमादीपयतां तीर्थं चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।।2.89.15।।
Meaning
पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः । वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ।।2.89.16।।
Meaning
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।।2.89.17।।
Meaning
ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ।।2.89.18।।
Meaning
सवैजयन्तास्तु गजाः गजारोहप्रचोदिताः । तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ।।2.89.19।।
Meaning
नावस्त्वारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ।।2.89.20।।
Meaning