Sarga 87: Questions about Rāma's Bed
रामशयनादिप्रश्नः
rāmaśayanādipraśnaḥ — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् । ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ।।2.87.1।।
Meaning
सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः । पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ।।2.87.2।।
Meaning
प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः । पपात सहसा तोत्रैः ह्यतिविद्ध इव द्विपः ।।2.87.3।।
Meaning
भरतं मूर्च्छितं दृष्ट्वा विवर्णवदनो गुहः । बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ।।2.87.4।।
Meaning
तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः । परिष्वज्य रुरोदोच्चैर्विसञ्ज्ञः शोककर्शितः ।।2.87.5।।
Meaning
ततः सर्वाः समापेतुर्मातरो भरतस्य ताः । उपवासकृशा दीना भर्तुर्व्यसनकर्शिताः ।।2.87.6।।
Meaning
ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ।।2.87.7।।
Meaning
वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी । परिपप्रच्छ भरतं रुदन्ती शोकलालसा ।।2.87.8।।
Meaning
पुत्र व्याधिर्न ते कच्चित् शरीरं परिबाधते । अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ।।2.87.9।।
Meaning
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्ञि नाथैकस्त्वमद्य नः ।।2.87.10।।
Meaning